Shri Kundalini Stuti Stotram

Shri Kundalini Stuti Stotram


|| श्री कुण्डलिनी स्तुति स्तोत्र ||

ॐ जन्मोद्धारनिरीक्षणीहतरुणी वेदादिबीजादिमां नित्यं चेतसि भाव्यते भुवि कदा सद्वाक्य सञ्चारिणी |

मां पातु प्रियदासभावकपदं सङ्घातये श्रीधरे !धात्रि ! त्वं स्वयमादिदेववनिता दीनातिदिनं पशुम् II1II

रक्ताभामृतचन्द्रिका लिपिमयी सर्पाकृतिनिर्द्रिता जाग्रत्कूर्मसमाश्रिता भगवती त्वं मां समालोकय |

मांसो मांसोद्गन्धकुगन्धदोषजडितं वेदादि कार्यान्वितम् स्वल्पास्वामलचन्द्र कोटिकिरणै-नित्यं शरीरम् कुरु II2II

सिद्धार्थी निजदोष वित्स्थलगतिर्व्याजीयते विद्यया कुण्डल्याकुलमार्गमुक्तनगरी माया कुमार्गःश्रिया |

यद्येवम् भजति प्रभातसमये मध्यान्हकालेSथवा नित्यम् यः कुलकुण्डलीजपपदाम्भोजं स सिद्धो भवेत् II3II

वाय्वाकाशचतुर्दलेSतिविमले वाञ्छोफ़लोन्मूलके नित्यम् सम्प्रति नित्त्यदेहघटिता साङ्केतिता भाविता |

विद्या कुण्डलमानिनी स्वजननी माया क्रिया भाव्यते यैस्तैः सिद्धकुलोद्भवैः प्रणतिभिः सत्स्तोत्रकैः शम्शुभिः II4II

वाताशन्कविमोहिनीति बलवच्छायापटोद्गामिनी संसारादी महासुख प्रहरिणी ! तत्र स्थिता योगिनी |

सर्वग्रन्थिविभेदिनी स्वभुजगा सूक्ष्मातिसूक्ष्मा परा ब्रह्मज्ञानविनोदिनी कुलकुटीराघातनी भाव्यते II5II

वन्दे श्रीकुलकुण्डलीं त्रिवलिभिः साङ्गैः स्वयंभूप्रियां प्रावेष्ट्याम्बर चित्तमध्यचपला बालाबलानिष्कलां |

या देवी परिभाति वेदवदना सम्भावनी तापिनी इष्टानाम् शिरसि स्वयम्भुवनिता सम्भावयामि क्रियाम् II6II

वाणी कोटि मृदङ्गनाद मदना- निश्रेणिकोटिध्वनिः प्राणेशी प्रियताममूलकमनोल्लासैकपूर्णानना |

आषाढोद्भवमेघराजिजनित ध्वान्ताननास्थायिनी माता सा परिपातु सूक्ष्मपथगे ! मां योगिनां शङ्करी II7II

त्वामाश्रित्त्य नरा व्रजन्ति सहसा वैकुण्ठकैलासयोः आनंदैक विलासिनीम् शशिशता नन्दाननां कारणम् |

मातः श्रीकुलकुण्डली प्रियकले काली कलोद्दीपने ! तत्स्थानं प्रणमामि भद्रवनिते ! मामुद्धर त्वं पथे II8II

कुण्डलीशक्तिमार्गस्थं स्तोत्राष्टकमहाफ़लम् | यः पठेत् प्रातरुत्थाय स योगी भवति धृवम् ||

क्षणादेव हि पाठेन कविनाथो भवेदिह | पवित्रौ कुण्डली योगी ब्रह्मलीनो भवेन्महान् ||

इति ते कथितं नाथ ! कुण्डलीकोमलं स्तवम् | एतत् स्तोत्र प्रसादेन देवेषु गुरुगीष्पतिः ||

सर्वे देवाः सिद्धियुता अस्याः स्तोत्रप्रसादतः | द्विपरार्धं चिरञ्जीवी ब्रह्मा सर्वसुरेश्वरः ||

इति श्री आदि शक्ती भैरवी विरचितम् | श्री कुण्डलिनी स्तुति स्तोत्रम् संपूर्णम् ॥ॐ ॥